|
|
 |
 |
|
|
५ उद्योगपर्व.jpg)
॥ श्रीः ॥
5.32. अध्यायः 032
Mahabharata - Udyoga Parva - Chapter Topics
पाण्डवानुज्ञातेन सञ्जयेन रात्रौ धृतराष्ट्रमुपगम्य अभिवादनपूर्वकं युधिष्ठिरकृतकुशलप्रश्नादिकथनम् ॥ 1 ॥ तथा धृतराष्ट्रं विगर्ह्य युधिष्ठिरवत्तनस्य श्वःकथनकथनपूर्वकं स्वभवनगमनम् ॥ 2 ॥
Mahabharata - Udyoga Parva - Chapter Text
वैशम्पायन उवाच।
` धर्मराजस्य वचनं श्रुत्वा पार्थो धनञ्जयः ।
उवाच सञ्जयं तत्र वासुदेवस्य शृण्वतः ॥ 5-32-1(32665)
पितामहं शान्तनवं धृतराष्ट्रं च सञ्जय।
द्रोणं सपुत्रं शल्यं च महाराजं च बाह्लिकम् ॥ 5-32-2(32666)
विकर्णं सोमदत्तं च शकुनिं चैव सौबलम् ।
विविंशतिं चित्रसेनं जयत्सेनं च सञ्जय ।
भगदत्तं तथा चैव शूरं रणकृतां वरम् ॥ 5-32-3(32667)
ये चाप्यन्ये कुरवस्तत्र सन्ति
राजानश्चेद्भूमिपालाः समेताः।
युयुत्सवः सैन्धवाः पार्थिवाश्च
समानीता धार्तराष्ट्रेण सूत ॥ 5-32-4(32668)
यथान्यायं कुशलं वन्दनं च
समागमे मद्वचनेन वाच्याः।
ततो ब्रूयाः सञ्जय राजमध्ये
दुर्योधनं पापकृतां प्रधानम् ॥ 5-32-5(32669)
एवं प्रतिष्ठाप्य धनञ्जयस्तं
ततोऽर्थवद्धर्मवच्चापि पार्थः ।
उवाच वाक्यं स्कवजनप्रहर्षं
वित्रासनं धृतराष्ट्रात्मजानाम् ॥ 5-32-6(32670)
अर्जुनेन समादिष्टस्तथेत्सुक्त्वा तु सञ्जयः।
पार्थानामन्त्रयामास केशवं च यशस्विनम् ॥' 5-32-7(32671)
अनुज्ञातः पाण्डवेन प्रययौ सञ्जयस्तदा।
शासनं धृतराष्ट्रस्यक सर्वं कृत्वा महात्मनः ॥ 5-32-8(32672)
` तदा तु सञ्जयः क्षिप्रमेकाहेन परन्तपः।
याति स्म हास्तिनपुरं निशाकाले परन्तप ॥' 5-32-9(32673)
संप्राप्य हास्तिनपुरं शीघ्रमश्वैर्महाजवैः।
अन्तःपुरं समास्थाय द्वाःस्थं वचनमब्रवीत् ॥ 5-32-10(32674)
आचक्ष्व धृतराष्ट्रास्य द्वाऽस्थ मां समुपागतम्।
सकाशात्पाण्डुपुत्राणां सञ्जयं माचिरं कृथाः ॥ 5-32-11(32675)
.....र्ति चेदभिवदेस्त्वं हि द्वाःस्थ
.....विशेयं विदितो भूमिपस्य।
.....द्यमत्रात्ययिकं हि मेऽस्ति
..... स्थोऽथ श्रुत्वा नृपतिं जगाद ॥ 5-32-12(32676)
द्वाःस्थ उवाच। 5-32-13x(3434)
सञ्जयोऽयं भूमिपते नमस्ते
दिदृक्षया द्वारमुपागतस्ते।
प्राप्तो दूतः पाण्डवानां सकाशात्
प्रशाधि राजन्किमयं करोतु ॥ 5-32-13(32677)
धृतराष्ट्र उवाच। 5-23-14x(3435)
आचक्ष्व मां कुशलिनं कल्पमस्मै
प्रवेश्यतां स्वागतं सञ्जयाय
न चाहमेतस्य भवाम्यकल्पः
स मे कस्माद्द्वारि तेष्ठेच्च सक्तः ॥ 5-32-14(32678)
वैशम्पायन उवाच। 5-23-15x(3436)
ततः प्रविश्यानुमते नृपस्य
महद्वेश्म प्राज्ञशूरार्यगुप्तम्।
सिंहासनस्थं पार्थिवमाससाद
वैचित्रवीर्यं प्राञ्जलिः सूतपुत्रः ॥ 5-32-15(32679)
संजय उवाच। 5-32-16x(3437)
सञ्जयोऽहं भूमिपते नमस्ते
प्राप्तोऽस्मि गत्वा नरदेव पाण्डवान्।
अभिवाद्य त्वां पाण्डुपुत्रो मनस्वी
युधिष्ठिरः कुशलं चान्वपृच्छत् ॥ 5-32-16(32680)
स ते पुत्रान्पृच्छति प्रीयमाणः
कच्चित्पुत्रैः प्रीयसे नप्तृभिश्च।
तथा सुहृद्भिः सचिवैश्च राजन्
ये चापि त्वामुपजीवन्ति तैश्च ॥ 5-32-17(32681)
धृतराष्ट्र उवाच। 5-32-18x(3438)
अभिनन्द्य त्वां तात वदामि सञ्जय
अजातशत्रुं च सुखेन पार्थम्।
कच्चित्स राजा कुशली सपुत्रः
सहामात्यः सानुजः कौरवाणाम् ॥ 5-32-18(32682)
सञ्जय उवाच। 5-32-19x(3439)
सहामात्य कुशली पाण्डुपुत्रो
बुभूषते यच्च तेऽग्रे त्मनाऽभूत्
निर्णीक्तधर्मार्थकरो मनस्वी
बहुश्रुतो दृष्टिमाञ्शीलवांश्च ॥ 5-32-19(32683)
परो धर्मः पाण्डवस्यानृशंस्यं
धर्मः परो वित्तचयान्मतोऽस्य।
सुखप्रियेऽधर्महीनेऽनपार्थे
नु रुध्यते भारत तस्य बुद्धिः ॥ 5-32-20(32684)
परप्रयुक्तः पुरषो विचेष्टते
सूत्रप्रोता दारुमयीव योषा।
इमं दृष्ट्वा नियमं पाण्डवस्य
मन्ये परं कर्म दैवं मनुष्यात् ॥ 5-32-21(32685)
इमं च दृष्ट्वा तव कर्म दोषं
पापोदर्कं घोरमवर्णरूपम्।
यावत्परः कामयतेऽतिवेलं
तावन्नरोऽयं लभते प्रशंसाम् ॥ 5-32-22(32686)
अजातशत्रुस्तु विहाय पापं
जीर्णां त्वचं सर्प इवासमर्थाम्।
विरोचते ह्यार्यवृत्तेन वीरो
युधिष्ठिरस्त्वयि पापं विसृज्य ॥ 5-32-23(32687)
हन्तात्मनः कर्म निबोध राजन्
धर्मार्थयुक्तादार्यवृत्तादपेतम् ।
उपक्रोशं चेह गतोऽसि राजन्
भूयश्च पापं प्रसजेदमुत्र ॥ 5-32-24(32688)
स त्वमर्थं संशयितं विना तै-
राशंससे पुत्रवशानुगोऽस्य।
अधर्मशब्दश्च महान्पृथिव्यां
नेदं कर्म त्वत्समं भारताग्र्य॥ 5-32-25(32689)
हीनप्रज्ञो दौष्कुलेयो नृशंसो
दीर्घं वैरी क्षत्रविद्यास्वधीरः।
एवंधर्मानापदः संश्रयेयु-
र्हीनवीर्यो यश्च भवेदशिष्टः ॥ 5-32-26(32690)
कुले जातो बलवान्यो यशस्वी।
बहुश्रुतः सुखजीवी यतात्मा।
धर्माधर्मौ ग्रथितौ यो बिभर्ति
स ह्यस्य दिष्टस्य वशादुपैति ॥ 5-32-27(32691)
कथं हि मन्त्राग्र्यधरो मनीषी
धर्मार्थयोरापदि संप्रणेता।
एवमुक्तः सर्वमन्त्रैरहीनो
नरो नृशंसं कर्म कुर्यादमूढः ॥ 5-32-28(32692)
तव ह्यमी मन्त्रविदः समेत्य
समासते कर्मसु नित्ययुक्ताः ।
तेषांमयं बलवान्निश्चयश्च
कुरुक्षये नियमेनोदपादि॥ 5-32-29(32693)
अकालिकं कुरवो नाभविष्यन्
पापेन चेत्पापमजातशत्रुः
इच्छेञ्जातु त्वयि पापं विसृज्य
निन्दा चेयं तव लोकेऽभविष्यत् ॥ 5-32-30(32694)
किमन्यत्र विषयादीश्वराणां
यत्र पार्थः परलोकं स्म द्रुष्टुम् ।
अत्यक्रामत्स तथा संमतः स्या-
न्न संशयो नास्ति मनुष्यकारः ॥ 5-32-31(32695)
एतान्गुणान्कर्मकृतानवेक्ष्य
भावाभावौ वर्तमानावनित्यौ।
बलिर्हि राजा पारमविन्दमानो
नान्यत्कालात्कारणं तत्र मेने ॥ 5-32-32(32696)
चक्षुःश्रोत्रे नासिका त्वक् च जिह्वा
ज्ञानस्यैतान्यायतनानि जन्तोः।
तानि प्रीतान्येव तृष्णाक्षयान्ते
तान्यव्यथो दुःखहीनः प्रणुद्यात् ॥ 5-32-33(32697)
नत्वेव मन्ये पुरुषस्य कर्म
सवर्तते सुप्रयुक्तं यथावत्।
मातुः पितुः कर्मणाभिप्रसूतः
संवर्धते विधिवद्भोजनेन ॥ 5-32-34(32698)
प्रियाप्रिये सुखदुःखे च राज-
न्निन्दाप्रशंसे च भजन्त एव।
परस्त्वेनं गर्हयतेऽपराधे
प्रशंसते साधुवृत्तं तमेव ॥ 5-32-35(32699)
स त्वां गर्हे भारतानां विरोधा-
दन्तो नूनं भविताऽयं प्रजानाम् ।
नोचेदिदं तव कर्मापराधात्
कुरून्दहेत्कृष्णवर्त्सेव कक्षम् ॥ 5-32-36(32700)
त्वमेवैको जातु पुत्रस्य राजन्
वशं गत्वा सर्वलोके नेरन्द्र।
कामात्मनः श्लाघनो द्यूतकाले
नागाः शमं पश्य विपाकमस्य ॥ 5-32-37(32701)
अनाप्तानां सङ्ग्रहात्त्वं नरेन्द्र
तथाऽऽप्तानां निग्रहाच्चैव राजन्।
भूमिं स्फीतां दुर्बलत्वादनन्ता-
मशक्तस्त्वं रक्षितुं कौरवेय ॥ 5-32-38(32702)
अनुज्ञातो रथवेगावधूतः
श्रान्तोऽभिपद्ये शयनं नृसिंह ।
प्रातः श्रोतारः कुरवः सभाया-
मजातशत्रोर्वचनं समेताः ॥ 5-32-39(32703)
धृतराष्ट्र उवाच। 5-32-40x(3440)
अनुज्ञातोऽस्यावसथं परेहि
प्रपद्यस्व शयनं सूतपुत्र।
प्रातः श्रोतारः कुरवः सभाया-
मजातशत्रोर्वचनं त्वयोक्तम् ॥ ॥ 5-32-40(32704)
इति श्रीमन्महाभारते उद्योगपर्वणि सञ्जययानपर्वणि द्वात्रिंशोऽध्यायः ॥ ॥ समाप्तं चेदं सञ्जययानपर्व ॥
Mahabharata - Udyoga Parva - Chapter Footnotes
5-32-8 ...... गच्छेत्युक्तः ॥ 8 ॥ 5-32-12 आत्ययिकं आवश्यकम् ॥ 12 ॥ 5-32-14 कल्पं दृढम्। अकल्पः दर्शने असमर्श्रः । सक्तः निरुद्धः ॥ 5-32-15 प्राज्ञाः शूराः आर्याः साधवश्च तैर्गुप्तम् ॥ 5-32-17 नप्तुभिः पुत्रस्य पुत्रैः ॥ 5-32-18 अजातशत्रुं सुखेन अभिनन्द्य त्वां प्रति वदामि ॥ 5-32-19 ते तव अग्रे यत् त्मनः आत्मनः राज्यधनादिकं अभूत् तत् बुभूषते प्राप्तुमिच्छति। निर्णिक्तौ दोषमलहीनौ धर्मार्थौ करोतीति स तथा। मनस्वी उदारः । दृष्टिमान् क्रान्तदर्शी ॥ 5-32-20 परो मुख्यः। आनृशंस्यं दया ततः रोषऽमुख्यः वित्तचयात् जात इति शेषः। वित्तसाध्यः सज्ञदानादिः। किंच तस्य बुद्धिः अनपार्थे न अपार्थे निष्प्रयोजने सप्रयोजने सुखप्रिये। संधिरार्षः। नु निश्चितं । रुध्यते अनुरुध्यते। अन्नादिजं देहपुष्टिसुखं पुत्रादि प्रियं च स परोपकारार्थमेवानुरुध्यते न कामकारेणेत्यर्थः ॥ 5-32-21 परेण ईश्वरेण प्रयुक्तः। नियमं निग्रहं मनुष्यात् मनुष्याकारात् दैवं ऐश्वरं कर्म परं श्रेष्ठं मन्ये ॥ 5-32-22 अवर्णरूपं अवर्णनीयरूपं अवाच्यमित्यर्थः। यावत्परः उत्कृष्टः शत्रुः कामयते तिष्ठत्वयं कंचित्कालमितीच्छति तावदपरो नरः प्रशंसा लभते ॥ 5-32-25 तैर्विना एकाकिना संशयितं दुर्लभमपि आशंससे प्राप्तुम्। अस्य तव महान् पृथिव्यां अधर्मशब्दोऽकीर्तिर्भवेत्। त्वत्समं तव युक्तम् ॥ 5-32-26 एवंधर्मान् ईदृशधर्मयुक्तान् पुरुषान् ॥ 5-32-27 सहि स एव दिष्टस्य वशात् भाग्यवशात् अस्य कुलेजातत्वादिगुणजातस्य । कर्मणि षष्टी। इदं गुणषट्कमुपैति प्राप्नोति । त्वं तु कुले जातोपि केवलं अनृतोपजीवित्वात् गुणानत्रहीनोऽसीति भावः ॥ 5-32-28 मन्त्र एव अग्र्यः श्रेष्ठो येषां ते मन्त्राग्र्यः भीष्मादयः तेषां धरो धर्ता। तैरेवं उक्तरीत्या द्यूतं मा कुर्वित्युक्तः कथं नृशंसं कर्म पाण्डवप्रव्राजनं कुर्यान्न कथमपीत्यर्थः ॥ 5-32-29 अमी कर्णादयः । तेषां कुरुक्षये कुरुक्षयनिमित्तं अयं राज्यं न देयमिति निश्चयः नियमेन उदपादि उत्पन्नः ॥ 5-32-30 अकालिकं अकस्मादेव कुरवो नाभविष्यन् नष्टाःस्युः। तव पापेन कर्मणा प्रेरितोऽजातशत्रुः त्वयि पापं इच्छेच्चेत्। नन्वेवं तर्हि तस्य गोत्रवधदोषः स्यादित्याशङ्क्याह त्वयीति। स्वनाशहेतुं अधर्मं कुर्वति त्वयि चोरे इव पापं विसृज्य रादा निष्पापोऽनिन्द्यश्च स्यादित्यर्थः ॥ 5-32-31 ईश्वराणां देवानां विषयादन्यत्र किम्। सर्वं देवाधीनमित्यर्थः। यत्र यतः पार्थोऽर्जुनः परलोकं द्रष्टुं अत्यक्रामत्। इमं लोकं सशरीर एव त्यक्तवान्। स तादृशः नारदादिवदुभयलोकसंचारयोग्यत्वेन साधूनां संमतोऽपि यदि तथा वनवसेन क्लेशसहः स्यात् तदा मनुष्यकारो नास्तीत्यस्मिन्नर्थे संशयो न ॥ 5-32-32 एतानिति। एतान् शौर्यांदीन् गुणान् कर्मकृतान्कर्मानुसारेण वृद्धिह्राययुक्तान् अवेक्ष्य अत एव भावाभावौ ऐश्वर्यानैश्वर्ये अनित्यौ आगमापायिनौ च अवेक्ष्य बलिराजा पूर्वपूर्वकर्मकारणपारं अन्तं अविन्दमानः सन् कालात् ईश्वरादन्यत्कारणं अभ्युदयादिहेतुरन्यत्किंचिन्नास्तीति मेने ॥ 32 ॥ 5-32-33 अतः सर्वस्य देवायत्तत्वात् तृष्णाक्षयेणैव इन्द्रियप्रीतिः संपादनीया नतु नानायत्नसाध्यतत्तद्वीषयसमर्पणेनेत्याह चक्षुरिति। ननु स्वस्वविषयालाभे तेषां कथं प्रीतिः स्यादित्याशङ्क्य तानि निरोधान्येवेत्याह तानीति। अव्यथः लाभालाभादौ वैषम्यहीनः प्रणुद्यात् स्वस्वगोचरेभ्यो निवर्तयेत् ॥ 5-32-34 एतद्दूषयति नत्विति। एव प्राप्ते सति अन्ये आहुः। तदेवाह पुरुषस्येति। संवर्तते सम्यक् फलवत् वर्तते। तदेवाह मातुरिति। कर्माभावे जन्मबृद्धी न स्यातामित्यर्थः 5-32-36 किंच नोचेदिति। इयं मया उच्यमानं कर्म पाण्डवेभ्यो राज्यांशप्रदानात्मकं तव नोचेत् संमतमिति शेषः। तर्हि तवापराधात कृष्णवर्त्माग्निः कक्षं यथा दहति एवं कृष्णवर्त्मा कृष्ण एव मार्ग इव सुखप्रापको यस्य स कृष्णवर्त्माऽर्जुनः कुरून् दहेदित्यावृत्त्या योज्यम् ॥ 5-32-37 श्लाघनः आत्मानं कृतार्थं मन्वानः। नागाः न गतवानसि ॥ 5-32-38 अनाप्तानां कर्णादीनाम् । आप्तानां विदुरादीनाम्। निग्रहात् दूरीकरणात्॥ 5-32-39 अवधूतस्तिरस्कृतः । अत एव श्रान्तः। प्रपद्ये प्राप्नुयाम् ॥ 5-32-40 आवसथं गृहम्। परेहि गच्छ। प्रपद्यस्व सेवस्व ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|